|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.93. अध्यायः 093
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरादिभिः क्रमेण ब्रह्मसरस्तीर्थगमनम् ॥ 1 ॥ तत्रशमठेन युधिष्ठिरादीन्प्रति गययज्ञवर्णनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-93-0x(2007)(19822)
ने तथा सहिता वीरा वसन्तस्तत्रतत्र ह।
क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥ 3-93-1(19823)
तत्स्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप।
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥ 3-93-2(19824)
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः।
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत ॥ 3-93-3(19825)
कालकोट्यां विपप्रस्थे गिरावुष्य च कौरवाः।
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥ 3-93-4(19826)
प्रयागे देवयजने देवानां पृथिवीपते।
ऊषुगप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥ 3-93-5(19827)
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः।
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥ 3-93-6(19828)
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः।
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥ 3-93-7(19829)
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्।
संतर्पयन्तः सततं वन्येन हविषा द्विजान् ॥ 3-93-8(19830)
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्।
राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥ 3-93-9(19831)
नगो गयशिरो यत्र पुण्या चैव महानदी।
वानीरमालिनी रम्या नदी पुलिनशोभिता ॥ 3-93-10(19832)
दिव्यं पवित्रकूटं च पवित्रधरणीधरम्।
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोतुलम् ॥ 3-93-11(19833)
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति।
रउवास च स्वयं तत्र धर्मराजः सनातनः ॥ 3-93-12(19834)
सर्वासां सरितां चैव समुद्भेदो विशांपते।
यत्रसंनिहितो नित्यं महादेवः पिनाकधृक् ॥ 3-93-13(19835)
`परिपूर्णः परंज्योतिः परमात्मा सनातनः।
ब्रह्मादिभिरुपास्योऽयं भगवान्परमेश्वरः ॥ 3-93-14(19836)
तं प्रणम्य महादेवं चतुर्वर्गफलप्रदम्।
रसिद्धिक्षेत्रमिदं मत्वासर्वेषांमोक्षकाङ्क्षिणाम् ॥ 3-93-15(19837)
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे।
ऋषियज्ञेन महता यत्राक्षयवटो महान्।
अक्षये देवयजने अक्षयं यत्रवै फलम् ॥ 3-93-16(19838)
ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः।
ब्राह्मणास्तत्रशतशः समाजग्मुस्तपोधनाः ॥ 3-93-17(19839)
चातुर्मास्येनायजन्त आर्षेण विधिना तदा।
तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः।
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम् ॥ 3-93-18(19840)
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः।
शमठोऽकथयद्राजन्नाधूर्तरजसं गयम् ॥ 3-93-19(19841)
शमठ उवाच। 3-93-20x(2008)
आधूर्तरजसः पुत्रो गयो राजर्षिसत्तमः।
पुण्यानि तस्य कर्माणि तानि मे शृणु भारत ॥ 3-93-20(19842)
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः।
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥ 3-93-21(19843)
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा।
व्यञ़्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥ 3-93-22(19844)
अहन्यहनि चाप्येवं याचतां संप्रदीयते।
अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥ 3-93-23(19845)
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः।
न च प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत ॥ 3-93-24(19846)
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा।
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥ 3-93-25(19847)
यत्रस्म गाथा गायन्ति मनुष्या मरतर्षभ।
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥ 3-93-26(19848)
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः।
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ 3-93-27(19849)
न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे।
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥ 3-93-28(19850)
कथं तु देवा हविषा गयेन परितर्पिताः।
पुन शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥ 3-93-29(19851)
सिकता वा यथा लोके यथा वा दिवि तारकाः।
यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्।
तथा गणयितुं शक्या गययज्ञे न दक्षिणाः ॥ 3-93-30(19852)
एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः।
बभूवुरस्य सरसः समीपे कुरुनन्दन ॥ 3-93-31(19853)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-93-10 वानीरमालिनी वेत्रपङ्क्तियुक्ता। सरो गयशिरो यत्रेति क. ध. पाठः ॥ 3-93-24 ब्रह्मशब्देन वेदध्वनिना ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|